|
|
 |
 |
|
|
१५ मौसलपर्व.jpg)
मौसलपर्व - अध्याय 008
॥ श्रीः ॥
15.8. अध्यायः 008
Mahabharata - Mausala Parva - Chapter Topics
अर्जुनेन वसुदेवसमाश्वासनपूर्वकं सकलपौरान्प्रति नातिचिरादेव द्वारकायाः समुद्रेण समाप्लावननिवेदनपूर्वकं सर्वेषामिन्द्रप्रस्थंप्रति प्रयाणसंनाहसंचोदना॥ 1 ॥ तथा परेद्युर्योगेन शरीरंत्यक्तवतो वसुदेवस्य पत्नीभिः सह संस्करणपूर्वकं रामकृष्णशरीरयोर्दाहनम्॥ 2 ॥ ततो वज्रार्जुनपुरस्कारेण सकलपौरजने पुरःपुनः प्रयाते समुद्रेण पश्चाद्भागे पौरजनमुक्ततत्तद्भागस्य स्वजलेन समाक्रमणम्॥ 3 ॥ अर्जुनेन मध्येमार्गं चोरापहृतावशिष्टयादवकलत्रादिभिः सह स्वदेशमेत्य युधिष्ठिराज्ञया वज्रस्येन्द्रप्रस्थराज्येऽभिषेचनम्। तथा सात्यकिसुतादीनां तत्रतत्र राज्येऽभिषेचनम्॥ 3 ॥ रुक्मिण्यादिभिः काभिश्चिदग्निप्रवेशनम्। सत्यभामादिभिः काभिश्चन तपसे वनगमनम्॥ 4 ॥
Mahabharata - Mausala Parva - Chapter Text
वैशम्पायन उवाच।
एवमुक्तः स बीभत्सुर्मातुलेनि परंतप।
दुर्मना दीनवदनो वसुदेवमुवाच ह॥ 15-8-1(97095)
नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल।
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो॥ 15-8-2(97096)
राजा च भीमसेनश्च सहदेवश्च पाण्डवः।
नकुलो याज्ञसेनी च षडेकमनसो वयम्॥ 15-8-3(97097)
राज्ञः संक्रमणे चापि कामोऽयं नित्यमेव हि।
तमिमं विद्धि सम्प्राप्तं कालं कालविदांवर॥ 15-8-4(97098)
सर्वथा वृष्णिदारांस्तु बालं वृद्धं तथैव च।
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम॥ 15-8-5(97099)
इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः।
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम्॥ 15-8-6(97100)
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम्।
प्रविवेशार्जुनः शूरः शोचमानो महाभुजः॥ 15-8-7(97101)
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा।
ब्राह्मणा नागरास्तत्र परिवार्योपतस्थिरे॥ 15-8-8(97102)
तान्दीनमनसः सर्वान्विमूढान्गतचेतसः।
उवाचेदं वचः काले पार्थो दीनतरस्तथा॥ 15-8-9(97103)
शक्रप्रस्थमहं नेष्ये पृष्णन्धकजनं स्वयम्।
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति॥ 15-8-10(97104)
सज्जीकुरुत यानानि रत्नानि विविधानि च।
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति॥ 15-8-11(97105)
सप्तमे दिवसे चैव रवौ विमल उद्गते।
बहिर्वत्स्यामहे सर्वे सज्जीभावत माचिरम्॥ 15-8-12(97106)
इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा।
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः॥ 15-8-13(97107)
तां रात्रिमवसत्पार्थः केशवस्य निवेशने।
महता शोकमोहेन सहसाऽभिपरिप्लुतः॥ 15-8-14(97108)
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान्।
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमां॥ 15-8-15(97109)
ततः शब्दो महानासीद्वसुदेवनिवेशने।
दारुणः क्रोशतीनां च रुदतीनां च योषिताम्॥ 15-8-16(97110)
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः।
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्तकरुणं स्त्रियः। 15-8-17(97111)
तं देवकी च भद्रा च रोहिणी मदिरा तथा।
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः॥ 15-8-18(97112)
ततः शौरिं नृयुक्तेन बहुमूल्येन भारत।
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा॥ 15-8-19(97113)
तमन्वयुस्तत्रतत्रं दुःखसोकसमन्विताः।
द्वारकावासिनः सर्वे पौरजानपदा हिताः॥ 15-8-20(97114)
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः।
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः॥ 15-8-21(97115)
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः॥
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः॥ 15-8-22(97116)
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः।
तत्रैनमुपसंकल्प्य वितृमेधं प्रचक्रिरे॥ 15-8-23(97117)
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः।
ततोन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः॥ 15-8-24(97118)
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः।
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि॥ 15-8-25(97119)
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः।
सामगानां च निर्घोषो नराणां रुदतामपि॥ 15-8-26(97120)
ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः।
सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः। 15-8-27(97121)
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः।
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ॥ 15-8-28(97122)
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः।
बभूवातीव कौरव्यः प्राप्तकालं चकार ह॥ 15-8-29(97123)
यथाप्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः।
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः॥ 15-8-30(97124)
`ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च।
स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः॥' 15-8-31(97125)
ततः शरीरे रामस्य वासुदेवस्य चोभयोः।
अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः॥ 15-8-32(97126)
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः।
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः॥ 15-8-33(97127)
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि।
स्त्रियस्ता वृष्णिवीराणां रुदन्त्यः शोककर्शिताः॥ 15-8-34(97128)
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम्।
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये॥ 15-8-35(97129)
वीरहीना वृद्धबालाः पौरजानपदास्तथा।
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात्॥ 15-8-36(97130)
कुञ्जरैश्च गजारोहा ययुः शैलनिर्भस्तथा।
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः॥ 15-8-37(97131)
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः॥ 15-8-38(97132)
दश षट् च सहस्राणि वासुदेवावरोधनम्।
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः॥ 15-8-39(97133)
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च।
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः॥ 15-8-40(97134)
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत्।
उवाह रथिनांश्रेष्ठः पार्थः परपुरंजयः॥ 15-8-41(97135)
निर्याते तु जने तस्मिन्सागरो मकरालयः।
द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा॥ 15-8-42(97136)
यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत।
तत्तत्संप्लावयामास सलिलेन स सागरः॥ 15-8-43(97137)
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः।
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन्॥ 15-8-44(97138)
काननेषु च रम्येषु पर्वतेषु नदीषु च।
निवसन्नानयामास वृष्णिदारान्धनंजयः॥ 15-8-45(97139)
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत्।
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः॥ 15-8-46(97140)
ततो लोभः समभवद्दस्यूनां निहतेश्वराः।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत॥ 15-8-47(97141)
ततस्ते पापकर्माणो लोभोपहतचेतसः।
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः॥ 15-8-48(97142)
अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम्।
नयत्यस्मानतिक्रम्य् योधाश्चेमे हतौजसः॥ 15-8-49(97143)
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः।
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः॥ 15-8-50(97144)
महता सिंहनादेन त्रासयन्तः पृथग्जनम्।
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः॥ 15-8-51(97145)
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः।
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव॥ 15-8-52(97146)
निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ।
इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया॥ 15-8-53(97147)
तथोक्तास्तेन वीरेणि कदर्तीकृत्य तद्वचः।
अभिपेतुर्जनं मूढा वार्यमाणाः पुनःपुनः॥ 15-8-54(97148)
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत्।
कआरोपयितुमारेभे यत्नादिव कथञ्चन॥ 15-8-55(97149)
चकार सज्यं कृच्छ्रेणि सम्भ्रमे तुमुले सति।
चिन्तयामास शस्त्राणि न च सस्मार तान्यपि॥ 15-8-56(97150)
वैकृतं तन्महद्दृष्ट्वा भुजवीर्य तथा युधि।
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत्॥ 15-8-57(97151)
वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः।
न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम्॥ 15-8-58(97152)
कलत्रस्य बहुत्वाद्धि सम्पतन्सु ततस्ततः।
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे॥ 15-8-59(97153)
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः।
समन्ततोवकृष्यन्त कामाच्चान्याः प्रवव्रजुः॥ 15-8-60(97154)
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः।
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः॥ 15-8-61(97155)
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः।
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः॥ 15-8-62(97156)
स शरक्षयमासाद्य दुःखशोकसमाहतः।
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः॥ 15-8-63(97157)
[प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः।
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय॥] 15-8-64(97158)
धनंजयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः।
दुःखसोकसमाविष्टो निःश्वासपरमोऽभवत्॥ 15-8-65(97159)
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य च क्षयात्।
धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च॥ 15-8-66(97160)
बभूव विमनाः पार्थो दैवमित्युनुचिन्तयन्।
न्यवर्तत ततो राजन्नेदमस्तीति चिन्तयन्॥ 15-8-67(97161)
ततः शेषं समादाय कलत्रस्य महामतिः।
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत्॥ 15-8-68(97162)
युधिष्ठिरस्यानुमते वंशकर्तॄन्कुमारकान्।
न्यवेशयत कौरव्यस्तत्रतत्र धनंजयः॥ 15-8-69(97163)
हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते।
अश्वपतिं खाण्डवारण्ये राज्ये तत्र न्येवशयत्।
भोजराजकलत्रं च हृतशेषं नरोत्तमः॥ 15-8-70(97164)
तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः।
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत्॥ 15-8-71(97165)
यौयुधानिं सरस्वत्याः पुत्रं सात्यकिनः प्रियम्।
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम्॥ 15-8-72(97166)
इन्द्रप्रस्थे ददौ राज्यं व्रज्राय परवीरहा।
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः॥ 15-8-73(97167)
रुक्मिणी त्वथ गान्धारी शैब्दा हैमवतीत्यपि।
देवी जींबवती चैव विविशुर्जातवेदसम्॥ 15-8-74(97168)
सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः।
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः॥ 15-8-75(97169)
द्वारकावासिनो ये पुरुषाः पार्थमभ्ययुः।
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः॥ 15-8-76(97170)
स तत्कृत्वा प्राप्तकालं बाष्णेणापिहितोऽर्जुनः।
कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे॥ ॥ 15-8-77(97171)
इति श्रीमन्महाभारते मौसलपर्वणि अष्टमोऽध्यायः॥ 8 ॥
Mahabharata - Mausala Parva - Chapter Footnotes
7-8-32 अन्विष्य दाहयामासेति झ.पाठः॥ 7-8-44 ब्रुवन् अब्रुवन्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|